|
|
Introduction
The Navyanyāya-Bhāṣāpradīpa, authored by Mahāmahopādhyāya Mahesh Chandra Nyāyaratna, is a foundational pedagogical text designed for the systematic study of the language and methodology of Navya Nyāya, aiming to make its intricate technical vocabulary and conceptual structures accessible through simplified Sanskrit exposition.
Departing from the traditional style of merely lexical explanation, the work seeks to clarify Navya-Nyāya terminology with greater precision and pedagogical clarity, thereby enabling students to engage effectively with its analytical framework and epistemological discourse.
This digitalization work has been carried out by Divya Prakash Pathak under the supervision of Prof. Subhash Chandra, Dr. Avadhesh Pratap Singh, and Prof. Om Nath Bimali, as part of the secondary objectives of his research work.
Source: Navyanyāya-Bhāṣāpradīpa, Kolkata, 1973.
Departing from the traditional style of merely lexical explanation, the work seeks to clarify Navya-Nyāya terminology with greater precision and pedagogical clarity, thereby enabling students to engage effectively with its analytical framework and epistemological discourse.
This digitalization work has been carried out by Divya Prakash Pathak under the supervision of Prof. Subhash Chandra, Dr. Avadhesh Pratap Singh, and Prof. Om Nath Bimali, as part of the secondary objectives of his research work.
Source: Navyanyāya-Bhāṣāpradīpa, Kolkata, 1973.
Acknowledgements
Designed and Developed by
Deepjyoti Deb, Divya Prakash Pathak & Prof. Subhash Chandra
Department of Sanskrit, University of Delhi
ग्रन्थ | Text No.
⬥ ग्रन्थ 1 ⬥
मूलम् | Original Text
धर्म:- ध्रियते तिष्ठति वर्तते यः स धर्मः । आकाशादिकं विना सर्व एव पदार्थाः यत्र-कुत्रचिदपि वर्तन्ते इति सर्व एव 'धर्माः' इत्युच्यन्ते । यत्र यो वर्तते स तस्य धर्मः । यथा- द्रव्ये जातिगुणकर्माणि तिष्ठन्तीति जातिगुणकर्माणि द्रव्यस्य धर्माः ; सूत्रादौ अवयवे पटादि अवयविद्रव्यं तिष्ठतीति द्रव्यमपि पटादि सूत्रादेर्धर्मः 'पात्रे जलं वर्तते' इति पात्रस्य धर्मो जलम् । आकाशादिकन्तु न कुत्रापि वर्तते इति आकाशं न कस्यापि धर्मः । अतएव ‘आकाशम्’ ‘अवृत्तिपदार्थ:' इत्युच्यते ।
Hindi Translation
⬥ ग्रन्थ 2 ⬥
मूलम् | Original Text
धर्मश्च प्रथमतो द्विविधः, जातिरुपाधिश्चेति । येन परस्परं विभिन्नरूपाणामपि एकजातीयद्रव्याणामेकश्रेण्यामन्तर्भावो भवति स धर्मो जाति: । यथा विभिन्नदेशीया मनुष्या विभिन्नाकाररूपस्वभावा अपि एकया मनुष्यत्वजात्या एकश्रेण्यामन्तर्भाविताः । जातिश्च सामान्यं नाम कणादोक्तश्चतुर्थः पदार्थः ।
Hindi Translation
⬥ ग्रन्थ 3 ⬥
मूलम् | Original Text
उपाधिरपि पुनः सखण्डोपाधिरखण्डोपाधिश्चेति द्विविधः । खण्डेन (अंशेन) सह वर्तते इति सखण्ड: ; यश्च अंशतो विभक्तुं शक्यते स सखण्डोपाधिर्धर्म इति यावत् । यथा पशुत्वं, तद्धि लोमवल्लाङ्गूलवत्त्वम् । ततश्च तस्य लोमलाङ्गूलादयः अंशा बहवो वर्तन्ते इति द्रव्यरूपं पशुत्वं धर्मः सखण्डोपाधिः । एवं 'रूपवानयं' इत्यत्र गुणात्मकं रूपं धर्मः । स च सखण्डोपाधिः । रूपत्वजातेराश्रयो हि रूपम् । ततश्च रूपस्य रूपत्वजातिः आश्रयश्चेति अंशद्वयमस्ति ।
Hindi Translation
⬥ ग्रन्थ 4 ⬥
मूलम् | Original Text
यस्य अंशविशेषो नास्ति, मनुष्यत्वद्रव्यत्वादिजातिवत्, यस्तु अंशतो विभक्तुं न शक्यते, अंशरहितत्वमेव यस्य स्वरूपमङ्गी क्रियते स अखण्डोपाधिः । यथा भावत्वं, तद्धि अभावत्वविरोधि कश्चन धर्म इति, पशुत्वादिवद् भावत्वम् अंशतो विभक्तुं न शक्यते ।
Hindi Translation
⬥ ग्रन्थ 5 ⬥
मूलम् | Original Text
जातेरपि अंशविभागो नास्ति । किन्तु जाते: समवायसम्बन्धेन सत्त्वं नियतम्, अखण्डोपाधेस्तु न तथा तस्य स्वरूपसम्बन्धेन सत्त्वमित्यनयोः पृथगुल्लेखः ।
Hindi Translation
⬥ ग्रन्थ 6 ⬥
मूलम् | Original Text
जातेरखण्डोपाधेश्च प्रतीतावनुल्लेखे (शब्देनानुच्चारणे) निरवच्छिन्ना (तयोर्विशेषणप्रतीतिरहिता) प्रतीतिर्भवति । यथा- 'पटो भाव:' इति प्रतीतौ पटत्वं जाति:, भावत्वमखण्डोपाधिश्च पटपदार्थभावपदार्थान्तर्भावेणैव प्रतीयते, न तु शब्देन ते उल्लिखिते इति न तयोः प्रतीतावत्र सविशेषणं भानं किन्तु पटत्वांशे भावत्वांशे च विशेषणभानरहितमेव निरवच्छिन्नं भानं जायते । यत्र तु तयोरुल्लेखः, तत्र तयोः प्रतीतिरपि सावच्छिन्ना (विशेषणप्रतीतिसहिता) भवति । यथा- 'अस्मिन् द्रव्ये भावत्वं पटत्वञ्चास्ति' इत्यत्र पटत्वं भावत्वञ्च स्पष्टत एव शब्देन उल्लिखितमिति तयोरत्र यथाक्रमं पटत्वत्वेन भावत्वत्वेन च सावच्छिन्ना प्रतीति: । अत एव 'अनुल्लिख्यमानजात्यखण्डोपाध्यतिरिक्तपदार्थानां निरवच्छिन्नभानानभ्युपगम' इति ग्रन्थकृद्भिः सिद्धान्तितः ।
Hindi Translation
⬥ ग्रन्थ 7 ⬥
मूलम् | Original Text
सम्बन्धः सन्निकर्षः स च विभिन्नयोर्वस्तुनोर्विशेषणविशेष्यभावप्रयोजकः । यथा-'दण्डी पुरुष' इति दण्डपुरुषयोर्विशेषणविशेष्यभावप्रयोजकः संयोगसम्बन्धः । दण्डपुरुषयोरन्तरा संयोगं विना 'दण्डी पुरुष:' इति विशेषणविशेष्यभावप्रतीतिरेव न स्यात् ।
Hindi Translation
⬥ ग्रन्थ 8 ⬥
मूलम् | Original Text
सम्बन्धश्च द्विविध:- साक्षात् परम्पराभेदात् । सम्बन्धान्तराघटितः सम्बन्धः साक्षात्सम्बन्धः ; स च समवाय संयोगस्वरूपादिभेदाद बहुविध: । 'रूपवान् पुरुष:', 'पात्रे जलमस्ति', 'गृहे पटो नास्ति' इत्यादौ पुरुषे रूपस्य, पात्रे जलस्य, गृहे च पटाभावस्य यथाक्रमं समवाय-संयोग-स्वरूपनामान: सम्बन्धाः प्रतीयन्ते ।
Hindi Translation
⬥ ग्रन्थ 9 ⬥
मूलम् | Original Text
समवायश्च षष्ठपदार्थतया कणादेनोक्तो नित्यः सम्बन्धः । यथा- 'रूपवान् ब्राह्मणोऽयं चलति' इत्यादौ ब्राह्मणत्वजातेः, रूपगुणस्य, चलनक्रियायाश्च ब्राह्मणे समवायः सम्बन्धः । यावदाधारं यावदाधेयं वा समवायस्तिष्ठतीति समवायो नित्यसम्बन्ध इत्युच्यते ; समवायस्यैव 'अयुतसम्बन्ध' इति नामान्तरम् | संयोगादिकन्तु नैवम् ; सतोरपि आधाराधेययो: (दण्डपुरुषयोः) संयोगादेरपायदर्शनात् ।
Hindi Translation
⬥ ग्रन्थ 10 ⬥
मूलम् | Original Text
संयोगश्च कणादोक्तगुणविशेषः । अभावादेः सम्बन्धः स्वरूपसम्बन्धः । यथा-‘भूतले पटो नास्ति' इत्यादौ भूतले पटाभावस्य स्वरूपसम्बन्धः प्रतीयते स्वरूपसम्बन्धस्यैव 'विशेषणता' इति नामान्तरम् ।
Hindi Translation
⬥ ग्रन्थ 11 ⬥
मूलम् | Original Text
सम्बन्धान्तरघटित: (यस्य सम्बन्धस्य निर्माणे सम्बन्धान्तरापेक्षा विद्यते तादृशः ) सम्बन्धः परम्परासम्बन्धः । यथा स्वसमवायिसमवेतत्वरूपेण सामानाधिकरण्यनामकेन परम्परासम्बन्धेन पटे तन्तोरपि रूपमस्ति । अयञ्च सम्बन्धः समवायघटितः । एवं दण्डकमण्डलुधारिणि पुरुषे गृहे तिष्ठति सति स्वसंयोगिसंयोगित्वरूपेण स्वाश्रयाश्रयत्वेन परम्परासम्बन्धेन दण्डकमण्डलू अपि गृहे स्त इति । अयञ्च सम्बन्धः संयोगघटितः ।
Hindi Translation
⬥ ग्रन्थ 12 ⬥
मूलम् | Original Text
समवायादिसाक्षात्सम्बन्धवत् परम्परासम्बन्धो न नियतसंख्यक: नापि च नियतपरिमाण:, यथेच्छं सम्बन्धि सम्बन्धादिकमादाय दीर्घ-दीर्घतर-दीर्घतमा असंख्या एव ते कल्पयितुं शक्यन्ते। सर्वतोऽसंसृष्टावपि पदार्थौ परम्परासम्बन्धेन सम्बद्धौ भवतः, तत्र च दूरत्वादि न प्रतिबन्धकम्, तथाहि स्वसम्राडधिकृतराज्यत्वसम्बधेन भारतवर्षीयाः सर्व एव आर्या अनार्याश्च इंग्लेण्डे सन्ति | इंग्लेण्डीयाश्च तत्र स्थिता अपि स्वराज्येश्वरीसाम्राज्यसम्बन्धेन भारतवर्षे तिष्ठन्तीति ।
Hindi Translation
⬥ ग्रन्थ 13 ⬥
मूलम् | Original Text
परम्परासम्बन्धस्य गूढं रहस्यमिदं स्वशब्देन यमभिप्रेत्य यस्य परम्परासम्बन्धस्यारम्भो यस्मिंश्च पर्यवसानं, तत् तेन परम्परासम्बन्धेन तस्मिन् तिष्ठति । यथा पूर्वोक्ते उदाहरणे स्वशब्देन भारतवर्षीयानभिप्रेत्य स्वसम्राडधिकृतराज्यत्वसम्बन्धस्यारम्भः, तच्च राज्यत्वम् इंग्लेण्डे वर्तत इति तस्य इंग्लेण्डे पर्यवसानम्, अतः तेन सम्बन्धेन भारतवर्षीया इंग्लेण्डे तिष्ठन्ति ।
Hindi Translation
⬥ ग्रन्थ 14 ⬥
मूलम् | Original Text
पुनश्च सम्बन्धो द्विविधः - वृत्तिनियामकः वृत्त्यनियामकश्चेति । यस्मिंश्च सम्बन्धे सति एकस्मिन् अपरस्य वृत्तिता, आधाराधेयभाव, आश्रयाश्रयिभावो वा प्रतीयते स सम्बन्धो वृत्तिनियामकः । वृत्तिनियामकसम्बन्धस्थले आधारे सप्तमी विभक्ति: प्रयुज्यते यथा- ‘भूतले घट:' । आधेये च मतुबादयः प्रत्ययाः भवन्ति । यथा- ‘भूतलं घटवत्' ।
Hindi Translation
⬥ ग्रन्थ 15 ⬥
मूलम् | Original Text
वृत्तिनियामकसम्बन्धाश्च समवाय-संयोग-स्वरूपप्रभृतय एव केचन । तेषु सम्बन्धेषु सत्सु 'पृथिव्यां रूपं', 'कुण्डे बदरं', 'भूतले घटो नास्ति' इत्यादिप्रयोगात् । समसूत्रपातेन स्थितयोरुभयोः संयोगोऽपि न वृत्तिनियामकः । अतएव अञ्जलिरूपतया समसूत्रपातेन स्थितयोर्हस्तयोः संयोगो न वृत्तिनियामक इति तत्र न 'हस्ते हस्तः' इति प्रयोगः । तयोरेव हस्तयोः उपर्यधोभावेन स्थितयोः पुनः संयोगो वृत्तिनियामक इति तत्र 'हस्ते हस्तः' इति प्रयोगोऽपि भवति ।
Hindi Translation
⬥ ग्रन्थ 16 ⬥
मूलम् | Original Text
यस्मिंस्तु सम्बन्धे पूर्वोक्तरूपा वृत्तिता आधाराधेयभावश्च न प्रतीयते, केवलं सम्बन्धितामात्रं, स वृत्त्यनियामक: सम्बन्धः । तत्र सप्तमीविभक्तेः मतुबादिप्रत्ययस्य च प्रयोगो न भवति । किन्तु सम्बन्धित्वबोधका 'इन्' - 'ईय’-प्रभृतयः प्रत्ययाः प्रयुज्यन्ते । यथा - स्वत्वसम्बन्धो न वृत्तिनियामक इति मन्त्रिणि सत्यपि स्वत्वसम्बन्धे 'मन्त्री राजवान्' इति, किंवा 'मन्त्रिणि राजा' इति न प्रयोग:, किन्तु 'राजकीयो मन्त्री' इति प्रयोगः [ उज्ज्वलाझानुसारं ... स्वत्वसम्बन्धे 'राजा मन्त्रीवान्' इति किंवा 'राज्ञि मन्त्री ' इति न प्रयोग:....]
Hindi Translation
⬥ ग्रन्थ 17 ⬥
मूलम् | Original Text
परम्परासम्बन्धाः प्रायशः सर्व एव वृत्त्यनियामकाः । अत एव शिखिनि पुरुषे गृहे तिष्ठति स्वाश्रयपुरुषाश्रयत्वसम्बन्धेन 'शिखावद् गृहम्' इति न प्रयोगः ।
Hindi Translation
⬥ ग्रन्थ 18 ⬥
मूलम् | Original Text
कालिकनामकः सम्बन्धः कश्चिद् वृत्तिनियामक:, कश्चिच्च वृत्यनियामकोऽस्ति । वृत्तिनियामकेन कालिकसम्बन्धेन काले सर्वं वर्तते। स च काल: महाकालरूपः खण्डकालरूपश्च । 'काले सर्वम्' इति महाकालविषयिणी प्रतीति: । अस्मिन् 'मासे शीताधिक्यम्', 'अद्य वृष्टिर्जाता' इत्यादयश्च खण्डकालविषयिण्यः प्रतीतयः । वृत्त्यनियामक: कालिकस्तु स्वाश्रयकालाश्रितत्वरूपः परम्परासम्बन्धः ; तेन सम्बन्धेन सर्वं सर्वत्र वर्तते । तथाहि गृहस्याश्रयः यः कालः तस्मिन् काले पुरुषोऽपि वर्तते इति स्वाश्रयकालाश्रितत्वसम्बन्धेन ( स्वस्य गृहस्य आश्रयः कालः तदाश्रितः पुरुषः ) गृहमपि पुरुषे वर्तते ।
Hindi Translation
⬥ ग्रन्थ 19 ⬥
मूलम् | Original Text
“अयं न द्वौ, किन्तु द्वित्ववान्” इति प्रतीते: 'द्वौ' 'द्वित्ववान्' इति पदयोरर्थविशेषावधारणाय नवीनैः कश्चित् पर्याप्तिनामकः सम्बन्ध: स्वीक्रियते । पर्याप्तिः पर्यवसानं, साकल्येन सम्बन्धः, अर्थात् यस्य यावन्तः आश्रयाः सन्ति, तस्य तावत्स्वेवाश्रयेषु मिलितेष्वेव सम्बन्धः। पर्याप्तिसम्बन्धेन द्वित्वसंख्या मिलितयोरेव द्वयोर्वर्तते न त्वेकैकस्मिन् ; एवं त्रित्वसंख्या मिलितेष्वेव त्रिषु वर्तते, न त्वेकैकस्मिन् द्वयोर्वा । अत एव द्वित्वादयः संख्या ‘व्यासज्यवृत्तयः' ( व्यासज्य सर्वमेवाधारमधिकृत्य वर्तन्ते) इत्युच्यते । एवञ्च द्विशब्दस्य पर्याप्तिसम्बन्धेन द्वित्वाधारताप्रतीतेः एकस्य च पर्याप्तिसम्बन्धेन द्वित्वाधारत्वाभावात् “अयं न द्वौ ” इति प्रतीतिर्भवति । समवाय सम्बन्धेन पुनः द्वित्वसंख्या द्वयोरेकैकस्मिन्नपि तिष्ठतीति 'समवाय सम्बन्धेन द्वित्वाश्रय' इत्यर्थमभिप्रेत्य 'द्वित्ववान्' इति प्रयोगः । ततश्च 'अयं न द्वौ किन्तु द्वित्ववान्' इति वाक्यस्य 'अयं न पर्याप्तिसम्बन्धेन द्वित्ववान्, किन्तु समवायसम्बन्धेन द्वित्ववान्' इत्यर्थः ।
Hindi Translation
⬥ ग्रन्थ 20 ⬥
मूलम् | Original Text
संख्यादीनामिव वक्ष्यमाणाया अवच्छेदकताया अपि पर्याप्तिसम्बन्धोऽङ्गीक्रियते ।
Hindi Translation
⬥ ग्रन्थ 21 ⬥
मूलम् | Original Text
विषयता विषयिता चेति अपरौ द्वौ वृत्त्यनियामकौ सम्बन्धौ स्तः । तत्र विषयाः घटपटादयो ज्ञानेच्छादौ विषयितासम्बन्धेन वर्तते । विषयतासम्बन्धेन च ज्ञानेच्छादयो घटपटादौ विषये तिष्ठन्तीति ।
Hindi Translation
⬥ ग्रन्थ 22 ⬥
मूलम् | Original Text
सम्बन्धो यद्यपि उभयनिष्ठः, यथा - कुण्डबदरयोः सम्बन्धः कुण्डे बदरे च अस्ति, तथापि केनचित् सम्बन्धेन कश्चिदेव कुत्रचिदेव तिष्ठति । यथा-संयोगेन सम्बन्धेन कुण्डे एव बदर तिष्ठति, न तु बदरे कुण्डम् । एवं भूतले एव घटो वर्तते, न तु घटे भूतलमिति । अत्र कारणमेतत्; सम्बन्धस्य एकं प्रतियोगि, अपरञ्चानुयोगि भवति । यस्य सम्बन्धस्य यत् प्रतियोगि भवति, तेन सम्बन्धेन तदेव तिष्ठति । यच्च यस्य सम्बन्धस्य अनुयोगि भवति, तेन सम्बन्धेन तत्र प्रतियोगि तिष्ठति । यथा कुण्डबदरयोः संयोगे बदरं प्रतियोगि, कुण्डञ्चानुयोगीति कुण्डे बदरं वर्तते । धर्मधर्मिणोः सम्बन्धस्य धर्मः प्रतियोगी, धर्मी चानुयोगी भवति । अतएव धर्म एव धर्मिणि वर्तते, न तु धर्मी धर्मे
Hindi Translation
⬥ ग्रन्थ 23 ⬥
मूलम् | Original Text
यच्च यत्र वर्तते तत् तस्य आधेयम्, आश्रितं तद्वृत्ति इति चोच्यते यत्र तु यद् वर्तते तत् तस्य अधिकरणम् आधार आश्रय इति चोच्यते । यथा कुण्डे बदरं वर्तते, गृहे पटो वर्तते इति बदरं पटश्च आधेयः, कुण्डं गृहञ्च आधार इति । यच्च यस्य आधेयं, तस्मिन् तन्निरूपिता वृत्तिता तिष्ठति । एवं यच्च यस्य अधिकरणं, तस्मिन् तन्निरूपिता अधिकरणता वर्तते । यथा पूर्वोक्तयोरुदाहरणयोः कुण्डनिरूपिता वृत्तिता बदरे, गृहनिरूपिता आधेयता च पटे वर्तते । एकस्य वृत्तितायामपरस्य अधिकरणता अवश्यम्भाविनी ।
Hindi Translation
⬥ ग्रन्थ 24 ⬥
मूलम् | Original Text
एकञ्च एकस्य अधिकरणतायां अपरस्य वृत्तिता नियता । अतएव वृत्तिताधिकरणतयोः परस्परनियतसापेक्षतया वृत्तिताधिकरणतयोश्च परस्परं निरूप्यनिरूपकभावोऽस्ति । वृत्तितानिरूपिता अधिकरणता, अधिकरणतानिरूपिता च वृत्तितेति । ततश्च 'कुण्डे बदरम्' इति वाक्यस्य 'कुण्डनिरूपितवृत्तितावद् बदरम्' किंवा 'कुण्डनिष्ठाधिकरणतानिरूपिताधेयतावद् बदरम्' इत्यर्थः प्रतीयते । एवं 'बदरवत् कुण्डम्' इत्यस्य प्रयोगस्य 'कुण्डं बदरनिरूपिताधिकरणतावत्' इति, किंवा 'कुण्डं बदरनिष्ठवृत्तितानिरूपिताधिकरणतावत्' इत्यर्थः पर्यवसीयते ।
Hindi Translation
⬥ ग्रन्थ 25 ⬥
मूलम् | Original Text
सम्बन्धवदभावस्यापि एवं प्रतियोगि, अपरञ्च अनुयोगि अस्ति । यः अभावः यस्य विरोधी प्रतिपक्षः, यश्चाभावो यस्य, 'घटस्य अभाव:', 'पटस्य अभाव:' इत्यादिरीत्या यत्सम्बन्धितया अभाव: प्रतीयते, तत् तस्य अभावस्य प्रतियोगि भवति । यथा यत्र घटाभावोऽस्ति, तत्र घटो नैव तिष्ठति इति घटाभावो घटस्य विरोधी । एवमयमभावो घटस्येति घटाभावस्य घटः प्रतियोगी, रूपाभावस्य रूपं प्रतियोगि । यत्र अभावो वर्तते, तद् अभावस्य अनुयोगि भवति, यथा वायुः रूपाभावस्य अनुयोगी, घटादि: जड़पदार्थ: ज्ञानाभावस्य । प्रतियोगिनि प्रतियोगिता, अनुयोगिनि च अनुयोगिता वर्तते ।
Hindi Translation
⬥ ग्रन्थ 26 ⬥
मूलम् | Original Text
एकत्र एकेन सम्बन्धेन वर्तमानस्यापि सम्बन्धान्तरेण अभावो वर्तते । यथा भूतले संयोगेन सम्बन्धेन वर्तमानस्यापि घटस्य समवायसम्बन्धेनाभावः । एवम् एकत्र एकेन रूपेण वर्तमानस्यापि रूपान्तरेण अभावो भवति, यथा-शुक्लपटवति गृहे पटत्वरूपेण सामान्यधर्मेण वर्तमानस्यापि नीलपटत्वरूपेण विशेषधर्मेण, बहिर्वृत्तित्वविशिष्टपटत्वरूपेण वा विशिष्टधर्मेण, पटघटोभयत्वरूपेण वा उभयत्वपुरस्कारेण अभावो भवति । न हि शुक्लपटस्य विद्यमानत्वेनैव नीलपटस्यापि वृत्तिता भवति, नापि च बहिर्वृत्ति (बहिरवस्थानदशायां ) / घटो भूतले / पटो गृहे वर्तते । एवं गृहे केवलस्य पटस्य सत्त्वेऽपि घटस्याभावेन पटघटोभयस्यापि अभावोऽस्त्येव । एकाभावेन उभयाभावस्य अवश्यम्भावित्वात् । इत्येवमभावस्य सम्बन्धविशेषकृतं धर्मविशेषकृतञ्च वैलक्षण्यं भवति ।
Hindi Translation
⬥ ग्रन्थ 27 ⬥
मूलम् | Original Text
तच्च अभावस्य वैलक्षण्यं प्रतियोगितावैलक्षण्यनिबन्धनमिति तदेवोच्यते । अभावस्य प्रतियोगिता केनचित् सम्बन्धेन केन चिद्धर्मेण च अवच्छिन्ना भवति येन सम्बन्धेन येन वा धर्मेण अवच्छिन्ना भवति, स सम्बन्धः स च धर्मः तस्याः प्रतियोगितायाः अवच्छेदको भवति । यथा 'भूतले समवाय सम्बन्धेन घटो नास्ति' इत्यादौ घटाभावस्य प्रतियोगिता समवायेन सम्बन्धेन घटत्वेन च धर्मेण अवच्छिन्ना । ततश्च तस्याः प्रतियोगितायाः समवायः सम्बन्ध:, घटत्वञ्च धर्मोऽवच्छेदकः । अतएव 'समवायेन घटो नास्ति' इत्यस्य समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रतियोगिताकोऽभावो वर्तते इत्यर्थः ।
Hindi Translation
⬥ ग्रन्थ 28 ⬥
मूलम् | Original Text
सम्बन्धस्य प्रतियोगितावच्छेदकत्वस्वीकारे युक्तिरियं - सामान्यतः कस्यापि कुत्रापि प्रायशोऽभावो नास्ति; अन्तत: कालिकसम्बन्धेन सर्वस्य सर्वत्र विद्यमानत्वात् । ततश्च अभावस्य अन्तरा कश्चित् सम्बन्धोऽस्तीति अवश्यमङ्गीकार्यम् । अभावस्यान्तरा प्रविशन् सम्बन्धः प्रतियोगितामेव अवच्छिन्दन् (विशेषयन् ) सम्भवति, नान्यथा, येन सम्बन्धेन यत्र यन्नास्ति, स एव सम्बन्धस्तत्र तदभावस्य प्रतियोगितामवच्छिनत्ति (विशेषयति ) । अत एव स एव सम्बन्धस्तस्या अवच्छेदको भवति। प्रतियोगिता च तेन सम्बन्धेनावच्छिन्ना भवति । यथा 'भूतले समवायसम्बन्धेन घटो नास्ति' इत्यत्र समवायसम्बन्धः भूतले घटाभावस्य प्रतियोगितां विशेषयतीति घटाभावस्य प्रतियोगिता समवायसम्बन्धावच्छिन्ना । समवायसम्बन्धश्च तस्याः प्रतियोगिताया अवच्छेदकः। तथा च सम्बन्धस्य अवच्छेदकत्वं विशेषकत्वरूपमिति फलितम् ।
Hindi Translation
⬥ ग्रन्थ 29 ⬥
मूलम् | Original Text
धर्मस्य प्रतियोगितावच्छेदकत्वे युक्तिरियम् – अभावस्य प्रतियोगिता कुत्र वर्तते, कुत्र वा न वर्तते इति निर्णयाय प्रतियोगितानियामक: कश्चिदस्तीति अवश्यमङ्गीकार्यम् । सर्वेषु प्रतियोगिषु वर्तमानः, तदन्यत्र अवर्तमानः प्रतियोगिगतः कश्चिद् असाधारणो धर्म एव प्रतियोगितायाः नियामको भवति । य एव नियामक: स एव अवच्छेदक इत्युच्यते । यश्च नियमितः स अवच्छिन्न इति । तथाहि - घटाभावस्य घटगता प्रतियोगिता कुत्र कुत्र वर्तते, कुत्र कुत्र वा न वर्तते ? इति प्रश्नस्योत्तरमिदमेव भवति, यत्र यत्र घटत्वं वर्तते, तत्र सर्वत्रैव घटाभावस्य घटगता प्रतियोगिता वर्तते, नान्यत्र कुत्रचित् घटत्वशून्ये; नापि च कस्मिन्नपि घटे तस्या अभाव इति घटत्वमेव घटगतायाः घटाभावप्रतियोगितायाः स्थितिनियामकम् । घटत्वेनैव घटाभावप्रतियोगिता नियमितेति नियामकत्वमेवावच्छेदकत्वम्, नियमितत्वमेवावच्छिन्नत्वमिति । यश्च प्रतियोगी भवति, तत्र विशेषणतया प्रतीयमानोऽसाधारणो धर्मः तद्गतप्रतियोगिताया अवच्छेदको भवतीति फलितार्थः ।
Hindi Translation
⬥ ग्रन्थ 30 ⬥
मूलम् | Original Text
अथवा स्थूलतः एवंरीत्या बोध्यम् - प्रतियोगिबोधक विशेष्यपदोत्तरं 'त्व'-'ता' प्रभृतिभावप्रत्ययनिष्पन्नो (निष्पन्नपदवाच्य) धर्मः प्रतियोगितावच्छेदको भवति यथा घटाभावस्य घटः प्रतियोगीति, प्रतियोगिवाचकं घटपदम्, तदुत्तरं 'त्व' प्रत्ययेन (घट+त्व) निष्पन्नो धर्म: (घटत्वं जाति:), घटगतप्रतियोगिताया अवच्छेदक इति एवं रूपाभावस्य प्रतियोगिवाचकं रूपपदम्, तत्र 'त्व' प्रत्ययनिष्पन्नपदस्यार्थः रूपत्वं जाति:, रूपाभावस्य प्रतियोगिताया अवच्छेदिकेति । यद्यपि अवच्छेदकत्वनियामकत्वयोरैक्यम्, तथापि ग्रन्थकृद्भिरवच्छेदकपदस्यैव प्रयोगात् अवच्छेदकशब्द एव प्रयोक्तव्यः, न तु नियामकशब्दोऽपि; तथात्वे अप्रयुक्ततादोषः स्यात् ।
Hindi Translation
⬥ ग्रन्थ 31 ⬥
मूलम् | Original Text
वृत्तितावत् प्रतियोगितापि अभावेन निरूपिता भवति, अभावश्च प्रतियोगिताया नियामक: । एवमवच्छेदकताप्रतियोगितयोरपि परस्परं निरूप्यनिरूपकभावोऽस्ति । अवच्छेदकतानिरूपिता प्रतियोगिता भवति, प्रतियोगितानिरूपिता च अवच्छेदकता भवति । ततश्च 'समवायेन घटो नास्ति' इत्यस्य समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्न प्रतियोगितानिरूपकोऽयमभावः ।
Hindi Translation
⬥ ग्रन्थ 32 ⬥
मूलम् | Original Text
एकस्य अभावस्यबहूनि प्रतियोगीनि सन्ति । सुतरां प्रतियोगिता: तदवच्छेदकधर्माः तदवच्छेदकसम्बन्धाश्चापि बहवो भवन्ति । तथाहि द्वितीयाभाव: (घटाभावाभावः) प्रतियोगि (घट) स्वरूपः । तृतीयाभाव: (घटाभावाभावाभाव: ) प्रथमाभाव ( घटाभाव) स्वरूप इति प्रथमाभावस्य (घटाभावस्य ) घट इव द्वितीयाभावोऽपि (घटाभावाभावोऽपि ) प्रतियोगी । तस्मिंश्च एका अपरा प्रतियोगिता वर्तते । तस्याश्च प्रतियोगिताया अवच्छेदको धर्मः द्वितीयाभावत्वं (घटाभावाभावत्वम् ) । अवच्छेदकसम्बन्धश्च स्वरूपम् । एवमन्यदपि प्रतियोगी ऊह्यम् ।
Hindi Translation
⬥ ग्रन्थ 33 ⬥
मूलम् | Original Text
भावपदार्थवत् अभावोऽपि व्याप्यवृत्तिरव्याप्यवृत्तिश्च भवति । 'व्याप्य' सर्वमेव आधारस्यांशां कालं देशं वा अवलम्ब्य वर्तते यः स व्याप्यवृत्तिः । कस्मिन्नपि अंशे कालविशेषे देशविशेषे वा यस्याधिकरणे अभावो नास्ति स व्याप्यवृत्तिः । यथा मनुष्ये मनुष्यत्वं जातिः, आकाशे रूपाभाव:, शशे विषाणाभावः । स्वाधारेऽपि यस्याभावो वर्तते, सोऽव्याप्यवृत्तिः । यथा वृक्षे कपिसंयोगः, कपिसंयोगाभावश्च अव्याप्यवृत्तिः।
Hindi Translation
⬥ ग्रन्थ 34 ⬥
मूलम् | Original Text
अव्याप्यवृत्तिपदार्थस्य वृत्तितायाः कश्चित् सीमापरिच्छेदकोऽस्ति । परिच्छेदक एवात्र अवच्छेदकनाम्ना व्यवह्रियते । स च क्वचित् आधारस्य अंशविशेषः, क्वचित् कालविशेषः क्वचिच्च देशविशेष इति । यथा 'शाखायां वृक्षः कपिसंयोगी, न मूले इत्यत्र वृक्षे कपिसंयोगस्य वृत्तितायाः शाखा सीमापरिच्छेदकतया अवच्छेदिका, कपिसंयोगाभावस्य तु मूलमवच्छेदकम् । 'उत्पत्ति काले पुष्पं न गन्धवत् किन्तु तदुत्तरम्' इत्यत्र पुष्पे गन्धाभावस्य वृत्तितायामुत्पत्तिकालः अवच्छेदकः, गन्धस्य वृत्तितायान्तु उत्पत्तेरनन्तरकालः अवच्छेदकः। " वसन्ते यवा मगधे तिष्ठन्ति, न तु गिरौ" इत्यत्र वसन्ते यववृत्तितायाः मगधदेशोऽवच्छेदकः, यवाभावस्य वृत्तितायां गिरिप्रदेशोऽवच्छेदकः।
Hindi Translation
⬥ ग्रन्थ 35 ⬥
मूलम् | Original Text
अव्याप्यवृत्तिताया अवच्छेदकवाचकपदे प्रायशः सप्तमी भवति । यथा 'अग्रे वृक्षः कपिसंयोगी, न मूले' इति प्रयोगः । अव्याप्यवृत्तिरभावः प्रतियोगिसमानाधिकरणो भवति । यथा वृक्षे कपि- संयोगाभावः, वृक्षे कपि: [ पाठभेदः - कपिसंयोगः ] कपिसंयोगाभावश्चास्ति । व्याप्यवृत्तिस्तु प्रतियोगिव्यधिकरण:, यथा- आकाशे रूपाभाव:, आकाशे रूपाभाव एवास्ति, न तु रूपमिति
Hindi Translation
⬥ ग्रन्थ 36 ⬥
मूलम् | Original Text
अभावश्च पुनर्द्विविधः - अन्योन्याभाव:, संसर्गाभावश्च । तादात्म्यं (तत्स्वरूपता ऐक्यम् अभेदः ) नाम कश्चित् सम्बन्धोऽस्ति तेन सम्बन्धेन तस्य प्रतियोग्यनुयोगिनोरभेदः प्रतीयते यथा - 'सुन्दरो नरः' इत्यत्र नरसुन्दरयोरैक्यं प्रतीयते तादात्म्यसम्बन्धेनाभाव: (भेदः) अन्योन्याभाव: । यस्य अभावस्य प्रतियोगिता तादात्म्यसम्बन्धेनावच्छिन्ना स अन्योन्याभाव इति | यथा-' घटो न पट' इति । ततश्च न्यायभाषायाम् अन्योन्याभावस्य तादात्म्यसम्बन्धावच्छिन्नप्रतियोगितानिरूपकाभावत्वम् अन्योन्याभावत्वम्' इति लक्षणं पर्यवसितं भवति । अन्योन्याभाव एव भेदः ।
अन्योन्याभावभिन्नोऽभावः संसर्गाभावः । नञा अभावबोधने यत्र प्रतियोगिपदेऽनुयोगिपदे च प्रथमा भवति, तत्र अन्योन्याभावः प्रतीयते । यथा 'घटो न पट' इति । यत्र पुनः प्रतियोगिपदे प्रथमा अनुयोगिपदे च सप्तमी भवति, तत्र नञा संसर्गाभावः प्रतीयते । यथा- 'भूतले घटो नास्ति' ।
अन्योन्याभावभिन्नोऽभावः संसर्गाभावः । नञा अभावबोधने यत्र प्रतियोगिपदेऽनुयोगिपदे च प्रथमा भवति, तत्र अन्योन्याभावः प्रतीयते । यथा 'घटो न पट' इति । यत्र पुनः प्रतियोगिपदे प्रथमा अनुयोगिपदे च सप्तमी भवति, तत्र नञा संसर्गाभावः प्रतीयते । यथा- 'भूतले घटो नास्ति' ।
Hindi Translation
⬥ ग्रन्थ 37 ⬥
मूलम् | Original Text
स्थूलत इदमत्रावधेयम्, अन्योन्यस्मिन् अन्योन्यस्य अभावः (तादात्म्याभाव: भेद इति यावत्) अन्योन्याभाव:, संसर्गस्य प्रतियोगिनः सम्बन्धस्य अनुयोगिनि अभावः संसर्गाभावः । अन्योन्याभावस्थले प्रतियोग्यनुयोगिनोः घटपटयोः परस्परम् अभेदाभाव: (भेदः) प्रतीयते। संसर्गाभावस्थले तु प्रतियोग्यनुयोगिनोः घटभूतलयोः सम्बन्धो नास्तीति पर्यवसाने प्रतीतिः । अत एव प्रतियोग्यनुयोगिनोरभेदेऽपि घटे घटो नास्तीति संसर्गाभावप्रतीतिः ।
Hindi Translation
⬥ ग्रन्थ 38 ⬥
मूलम् | Original Text
प्रतियोगितावत् अवच्छेदकतासाध्यताकार्यता विधेयता हेतुता कारणता प्रकारतादयोऽपि धर्मगताः सापेक्ष धर्माः केनचिद्धर्मेण केनचिच्च सम्बन्धेन अवच्छिन्ना भवन्ति । अत्र वृतिता प्रतियोगितास्थलीययुक्तिरिव युक्तिः स्वयमुद्भावनीया । तत्र कियन्ति उदाहरणानि दर्शयामि ।
Hindi Translation
⬥ ग्रन्थ 39 ⬥
मूलम् | Original Text
अवच्छेदके विशेषणीभूतो धर्मोऽवच्छेदकतायाः अवच्छेदको भवति । अवच्छेदके विशेषणीभूतो धर्मो येन सम्बन्धेन तिष्ठति, स सम्बन्धोऽवच्छेदकतावच्छेदकः सम्बन्धो भवति । यथा 'दण्डी नास्ति' इत्यत्र दण्डिनि प्रतियोगिनि विशेषणतया उपस्थितो दण्डो दण्डिगतप्रतियोगिताया अवच्छेदक:, दण्डश्च दण्डिनि संयोग सम्बन्धेन तिष्ठतीति दण्डगता प्रतियोगितावच्छेदकता संयोग सम्बन्धावच्छिन्ना । दण्डे च दण्डत्वं विशेषणतया उपस्थितमिति दण्डगतायाः प्रतियोगितावच्छेदकताया अवच्छेदकं दण्डत्वम्। दण्डत्वञ्च दण्डे समवायसम्बन्धेन तिष्ठतीति दण्डत्वगता अवच्छेदकता समवायसम्बन्धावच्छिन्ना दण्डत्वे च किमपि विशेषणतया न प्रतीयते इति दण्डत्वगता अवच्छेदकतावच्छेदकता निरवच्छिन्ना । ततश्च 'दण्डी नास्ति' इत्यस्य नैयायिकभाषायामयमर्थ: -- समवायसम्बन्धावच्छिन्नदण्डत्वनिष्ठावच्छेदकतानिरूपित-संयोगसम्बन्धावच्छिन्नदण्डनिष्ठावच्छेदकतानिरूपित-संयोगसम्बन्धावच्छिन्नदण्डिनिष्ठप्रतियोगितानिरूपकोऽभावः ।
Hindi Translation
⬥ ग्रन्थ 40 ⬥
मूलम् | Original Text
येन सम्बन्धेन यत् साध्यते, यत् क्रियते, यत् विधीयते, यो हेतु:, यत् कारणम्, यश्च प्रकारो भवति, स सम्बन्धः तन्निष्ठ साध्यता-कार्यता-विधेयता हेतुता कारणता प्रकारतानामवच्छेदको भवति । 'सुन्दरो नरः' इत्यादौ नरस्य धर्मिणः केवलं विशेष्यतयैव प्रतीतिः, तस्य सम्बन्धो न कुत्रापि बोध्यते इति धर्मिगता अधिकरणता - अनुयोगिता - विशेष्यता-पक्षतादयः सापेक्षधर्माः न केनापि सम्बन्धेन अवच्छिन्नाः, केवलं धर्मेणैव तेऽवच्छिन्ना इति ।
Hindi Translation
⬥ ग्रन्थ 41 ⬥
मूलम् | Original Text
यो धर्म साध्यादौ विशेषणतया प्रतीयते स धर्मः साध्यतादीनामवच्छेदको भवति । यथा- 'पर्वतो वह्निमान् धूमात्' इत्यत्रानुमाने पर्वते पक्षे धूमेन हेतुना वह्निः संयोगसम्बन्धेन साध्यते इति यथाक्रमं पर्वतत्वं पक्षतावच्छेदकं, धूमत्वं हेतुतावच्छेदकं, वह्नित्वं साध्यतावच्छेदकम् । संयोगश्च साध्यतावच्छेदकः सम्बन्धः । हेतुरपि संयोगसम्बन्धेनैव कृत इति हेतुतावच्छेदकसम्बन्धोऽपि संयोग एव ।
Hindi Translation
⬥ ग्रन्थ 42 ⬥
मूलम् | Original Text
यत्र च साध्यतावच्छेदको धर्मः सखण्डः, तत्र साध्यतावच्छेदकतावच्छेदकोऽप्यस्ति । यथा- ' शतायुरप्ययं वृद्धो मरिष्यति मनुष्यत्वात्' इत्यनुमाने मरणं साध्यम्, मरणत्वञ्च साध्यतावच्छेदकम् । मरणञ्च श्वासप्रश्वासयोर्विरामः इति श्वासप्रश्वासविरामरूपं मरणत्वं सखण्डोपाधिः धर्मः । ततश्च मरणत्वत्वेन धर्मेण मरणत्वमत्र विशेषणीभूतमिति मरणत्वत्वं साध्यतावच्छेदकतावच्छेदकम् । एवमन्यदपि ज्ञेयम् ।
Hindi Translation
⬥ ग्रन्थ 43 ⬥
मूलम् | Original Text
अवच्छेदकपदस्य क्वचिद् विशेषणमित्यर्थः । अवच्छिन्नपदस्य च विशिष्टम् आश्रय इत्यर्थोऽपि भवति । यथा 'अवच्छेदकत्वमात्रेणान्वयः' इत्यत्र अवच्छेदकत्वपदस्य विशेषणत्वमर्थः | 'वह्नित्वावच्छिन्नस्य यस्य कस्यचिद्' इत्यत्र 'वह्नित्वावच्छिन्नस्य' 'वह्नित्वाश्रयस्य' इत्यर्थो बोध्यते ।
Hindi Translation
⬥ ग्रन्थ 44 ⬥
मूलम् | Original Text
ज्ञानं द्विविधम् निर्विकल्पकं सविकल्पकञ्च । 'निर्' नास्ति 'विकल्प:' विशेष्यविशेषणभावः विशेष्यविशेषणयोः सम्बन्धो वा यस्मिन् तत् निर्विकल्पकम् । निर्विकल्पके हि ज्ञाने केवलं धर्मधर्मिणोः पटत्वपटयोः परस्परमसंसृष्टयो: (पट-पटत्वे इत्याकारकं ) भानं (प्रकाशो) भवति, न तु तयो: सम्बन्धस्यापि भानम् । विषयेन्द्रियसन्निकर्षे सति जायमानं प्राथमिकं प्रत्यक्षं निर्विकल्पकं भवति ।
Hindi Translation
⬥ ग्रन्थ 45 ⬥
मूलम् | Original Text
तत्रेदं कारणम् - विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य हेतुत्वम् । न हि अज्ञातशुक्लरूपस्य जनस्य इदं शुक्लं वस्त्रम्' इति प्रतीतिर्भवति । ततश्च पटे चक्षुः संयोगात् पूर्वं तत्समकालं वा पटत्वज्ञानस्य नियतमसम्भवाद पटत्वज्ञानं विना पटत्वस्य विशेषणतया पटे ज्ञानासम्भव इति, पटे चक्षुः संयोगानन्तरं प्रथमं पटत्वस्य ज्ञाने जाते ततो द्वितीयेन ज्ञानेन 'अयं पट:' इति पटत्वविशिष्टबुद्धिर्भवति ।
Hindi Translation
⬥ ग्रन्थ 46 ⬥
मूलम् | Original Text
विशेष्यविशेषणभावावगाहिज्ञानं सविकल्पकं (विकल्पेन सहितम् ) ज्ञानम् । 'अयं घट:' 'सुन्दरो नरः' इत्यादि विशिष्टज्ञानं सर्वमेव सविकल्पकम् ।
द्वितीयप्रत्यक्षं सर्वदैव विशिष्टज्ञानमेव भवति । प्राथमिकेन निर्विकल्पकेन प्रत्यक्षेण अवगतस्य घटत्वादिसामान्यस्य घटादौ विशेषणतया प्रतीतौ बाधाभावात् । तृतीयन्तु प्रत्यक्षं प्रायशो विशिष्टवैशिष्ट्यावगाहि भवति । यथा- 'कृष्णपशुपूर्णा पशुशाला' इति । अत्र कृष्णरूपविशिष्टस्य पशो: पशुशालायां सम्बन्धो भासते। 'दण्डिपूर्णो मठ:' इति ज्ञाने दण्डविशिष्टस्य पुरुषस्य वैशिष्ट्यं (सम्बन्धः ) मठे प्रतीयते ।
द्वितीयप्रत्यक्षं सर्वदैव विशिष्टज्ञानमेव भवति । प्राथमिकेन निर्विकल्पकेन प्रत्यक्षेण अवगतस्य घटत्वादिसामान्यस्य घटादौ विशेषणतया प्रतीतौ बाधाभावात् । तृतीयन्तु प्रत्यक्षं प्रायशो विशिष्टवैशिष्ट्यावगाहि भवति । यथा- 'कृष्णपशुपूर्णा पशुशाला' इति । अत्र कृष्णरूपविशिष्टस्य पशो: पशुशालायां सम्बन्धो भासते। 'दण्डिपूर्णो मठ:' इति ज्ञाने दण्डविशिष्टस्य पुरुषस्य वैशिष्ट्यं (सम्बन्धः ) मठे प्रतीयते ।
Hindi Translation
⬥ ग्रन्थ 47 ⬥
मूलम् | Original Text
विशिष्टज्ञाने एकं विशेष्यम् अपरं विशेषणं भवति । विशेष्यस्यैव उद्देश्यमिति नामान्तरम् विशेषणस्य प्रकार इति । यथा- 'सुन्दरो नरः' इत्यत्र नरो विशेष्यः, सौन्दर्यं प्रकारः ।
विशेष्ये प्रकारे च यद् विशेषणतया प्रतीयते तद् यथाक्रमं विशेष्यतावच्छेदकं प्रकारतावच्छेदकञ्च भवति । यथा 'मृण्मयोऽयं गिरिः आश्विने मासि मनोहरपुष्पसमृद्धो भवति' इत्यादौ गिरौ विशेष्ये मृत्तिका गिरित्कच विशेषणम्, मृत्तिकायाञ्च मृत्तिकात्वम् विशेषणम् । ततश्च मृत्तिका गिरित्कञ्च विशेष्यतावच्छेदकम्, मृत्तिकात्वन्तु विशेष्यतावच्छेदकावच्छेदकम् । एवं मनोहरपुष्प समृद्धौ प्रकारे मनोहरपुष्पं विशेषणम् । तत्र च मनोहरत्वं पुष्पत्वञ्च विशेषणतया प्रतीयते इति पुष्पं प्रकारतावच्छेकं, मनोहरत्वं पुष्पत्वञ्च उभयमेव प्रकारतावच्छेकतावच्छेदक्तम् ।
विशेष्ये प्रकारे च यद् विशेषणतया प्रतीयते तद् यथाक्रमं विशेष्यतावच्छेदकं प्रकारतावच्छेदकञ्च भवति । यथा 'मृण्मयोऽयं गिरिः आश्विने मासि मनोहरपुष्पसमृद्धो भवति' इत्यादौ गिरौ विशेष्ये मृत्तिका गिरित्कच विशेषणम्, मृत्तिकायाञ्च मृत्तिकात्वम् विशेषणम् । ततश्च मृत्तिका गिरित्कञ्च विशेष्यतावच्छेदकम्, मृत्तिकात्वन्तु विशेष्यतावच्छेदकावच्छेदकम् । एवं मनोहरपुष्प समृद्धौ प्रकारे मनोहरपुष्पं विशेषणम् । तत्र च मनोहरत्वं पुष्पत्वञ्च विशेषणतया प्रतीयते इति पुष्पं प्रकारतावच्छेकं, मनोहरत्वं पुष्पत्वञ्च उभयमेव प्रकारतावच्छेकतावच्छेदक्तम् ।
Hindi Translation
⬥ ग्रन्थ 48 ⬥
मूलम् | Original Text
विशेष्ये विशेष्यता प्रकारे च प्रकारता वर्तते । ते च परस्परं निरूप्यनिरूपकभावापन्ने,विशेष्यतानिरूपिता प्रकारता भवति, प्रकारतानिरूपिता च विशेष्यतेति एवं प्रकारता विशेष्यनिरुपिता भवति विशेष्यता च प्रकारनिरूपिता भवति । एतत् सर्वं वृत्तितावर्णनास्थले उक्तप्रायमेव ।
Hindi Translation
⬥ ग्रन्थ 49 ⬥
मूलम् | Original Text
विशेषणं द्विविधम्- सिद्धं साध्यञ्च । सिद्धं पूर्वावगतं विशेषणम्, विशेष्यस्य इतरेभ्यो व्यावर्तनाय विशेष्यान्तरा प्रयुज्यते । साध्यञ्च पूर्वमप्राप्तम् प्राधान्येन विधीयते । साध्यस्य विधेयमिति नाम । यथा-'दयादाक्षिण्यादिगुणैरलङ्कृतो जनकानुरक्तोऽयं रामः सर्वैर्नमस्य' इत्यत्र विशेष्यस्य रामस्य दयादाक्षिण्यादिगुणैरलङ्कृतत्वं जनकानुरक्तत्वञ्च च पूर्वावगतमिति सिद्धं विशेषणम् इतरव्यावर्तनाय उद्देश्यमध्ये प्रयुक्तम् । नमस्यत्वन्तु पूर्वमसिद्धमिति विधीयते ।
Hindi Translation
⬥ ग्रन्थ 50 ⬥
मूलम् | Original Text
विधेयस्य विधानञ्च क्वचित् विशेष्यतावच्छेदकसामानाधिकरण्येन क्वचिच्च विशेष्यतावच्छेदकावच्छेदेन भवति । यस्मिन् कस्मिन्नपि विशेष्ये यद्विधान तत् विशेष्यतावच्छेदकसामानाधिकरण्येन (विशेष्यतावच्छेदकस्य समाने एकस्मिन् अधिकरणे वृत्तितया ) विधानम् । यथा- 'ब्राह्मणो विद्वान् भवति' इत्यनेन न 'सर्व एव ब्राह्मणा विद्वांसो भवन्ति' इति विधीयते किन्तु 'यत्र यत्र ब्राह्मण्यं वर्तते तेषां मध्ये केषुचित् विद्या वर्तते इति । यत्र यत्र विशेष्यतावच्छेदकं वर्तते, तत्र सर्वत्रैव (अर्थात् सर्वस्मिन्नेव विशेष्ये) विधेयस्य विधानम् विशेष्यतावच्छेदकावच्छेदेन (विशेष्यतावच्छेदकस्य अवच्छेदेन व्याप्त्या) विधानम् । यथा-'मनुष्यो मरणशीलः' इत्यनेन न केषुचित् मनुष्येषु मरणशीलत्वं विधीयते किन्तु सर्वेष्वेव मनुष्येषु । मनुष्यत्वं व्याप्य सर्वेष्वेव मनुष्येषु मरणशीलत्वं विधीयते इति ।
Hindi Translation
⬥ ग्रन्थ 51 ⬥
मूलम् | Original Text
विधेये मुख्यप्रकारता तिष्ठति । मुख्यप्रकारतानिरूपिता विशेष्यता च मुख्यविशेष्यता भवति । विधेयभिन्ने या प्रकारता सा न मुख्या । एवं या च विशेष्यता मुख्यप्रकारतानिरूपिता न भवति सापि न मुख्यविशेष्यता । अत एव ' जनकानुरक्तोऽयं रामः पूज्यः' इत्यत्र पूज्यत्वरूपविधेयनिष्ठा प्रकारता मुख्या, तन्निरूपितैव च रामनिष्ठा विशेष्यता मुख्या । जनकानुरक्तत्वरूपविशेषणनिष्ठा च प्रकारता न मुख्या, सुतरां तन्निरूपिता रामनिष्ठा विशेष्यतापि न मुख्या ।
Hindi Translation
⬥ ग्रन्थ 52 ⬥
मूलम् | Original Text
पुनश्च ज्ञानं द्विविधम् निश्चयः संशयश्चेति । यत्र ज्ञाने एकस्मिन् विशेष्ये एकमेव, तदेव तदभाव एव वा प्रकारतया भासते सनिश्चयः । यस्मिन् तु पुनः एकस्मिन्नेव तत् तदभावश्च उभयमेव भासते स संशयः । यथा- 'अयं मनुष्यः' इति निश्चयः, 'दीर्घोऽयं मनुष्यो न वा' इति संशयः । पूर्वत्र एकमेव मनुष्यत्वं प्रकारः; परत्र मनुष्यत्वं मनुष्यत्वाभावश्च उभयएव प्रकारः । संशये हि एकस्मिन् विशेष्ये प्रतियोगी अभावश्च परस्परविरुद्धावपि उभौ प्रकारतया भासते इति नियमः । तत्र भावाभावोभयप्रकारतानिरूपिता एकैव विशेष्यता भवति । यथा उक्ते उदाहरणे मनुष्यत्वनिष्ठा या प्रकारता, या च मनुष्यत्वाभावनिष्ठा प्रकारता, एतदुभयनिरूपिता एकैव विशेष्यता अस्मिन् दीर्घे विशेष्ये वर्तते। समूहालम्बनस्थले तु प्रत्येकप्रकारतानिरूपिता पृथक् पृथक् विशेष्यता भवति इति संशयात् समूहालम्बनस्य भेदः । संशये प्रकारस्य कोटिरिति नाम । अयं स्थाणुर्वा पुरुषो वा' इत्यादौ संशये कोटिचतुष्टयमस्ति स्थाणुत्वं, स्थाणुत्वाभाव:, पुरुषत्वं पुरुषत्वाभावश्चेति । अत एवायं संशयः चातुष्कोटिक इत्युच्यते । केचित्तु वदन्ति - अत्रापि कोटिद्वयमेवास्ति स्थाणुत्वम्, स्थाणुत्वविरुद्धपुरुषत्वञ्चेति ।
Hindi Translation
⬥ ग्रन्थ 53 ⬥
मूलम् | Original Text
संशये च क्वचित् कोटिद्वयं समानं भवति, क्वचिच्च काचिदेका कोटिरुत्कटा भवति । 'आश्विने मासि वृष्टिरधिका भवति न वा' इति सन्देहे अधिकवृष्टेः तदभावस्य वा बोधकं किमपि चिह्नमधुना नास्तीति नैकापि कोटिरुत्कटा | परन्तु 'भादे मासि वृष्टिर्भवति न वा' इति संशये भाद्रमासस्य वर्षाकालतया वृष्टिकोटिरुत्कटा इत्ययं संशयः उत्कटैककोटिः । उत्कटैककोटिकः संशय एव 'सम्भावनेत्युच्यते । अत एव 'भाद्रे मासि वृष्टिर्भवति न वा' इति ज्ञानं 'सम्भावना' इत्यलम् ।
इति महामहोपाध्याय श्रीमन्महेशचन्द्रन्यायरत्नप्रणीतः नव्यन्यायभाषाप्रदीपः समाप्तः।
इति महामहोपाध्याय श्रीमन्महेशचन्द्रन्यायरत्नप्रणीतः नव्यन्यायभाषाप्रदीपः समाप्तः।
Hindi Translation