NAVYANYĀYA-BHĀṢĀPRADĪPA | नव्यन्याय-भाषाप्रदीप

अनुक्रमणिका (Index)

अन्वेषिका (Search)

अनुवादाः व्याख्याश्च (Filters)

| |
ग्रन्थ | Text No.

⬥ ग्रन्थ 1 ⬥

मूलम् | Original Text
धर्म:- ध्रियते तिष्ठति वर्तते यः स धर्मः । आकाशादिकं विना सर्व एव पदार्थाः यत्र-कुत्रचिदपि वर्तन्ते इति सर्व एव 'धर्माः' इत्युच्यन्ते । यत्र यो वर्तते स तस्य धर्मः । यथा- द्रव्ये जातिगुणकर्माणि तिष्ठन्तीति जातिगुणकर्माणि द्रव्यस्य धर्माः ; सूत्रादौ अवयवे पटादि अवयविद्रव्यं तिष्ठतीति द्रव्यमपि पटादि सूत्रादेर्धर्मः 'पात्रे जलं वर्तते' इति पात्रस्य धर्मो जलम् । आकाशादिकन्तु न कुत्रापि वर्तते इति आकाशं न कस्यापि धर्मः । अतएव ‘आकाशम्’ ‘अवृत्तिपदार्थ:' इत्युच्यते ।
Hindi Translation
Home IKS Texts Tools Blogs