|
|
Introduction
The Tarkasangraha, composed by Annambhatta, is a concise introductory treatise on the Nyāya–Vaiśeṣika tradition, systematically presenting fundamental categories (padārthas) such as dravya, guṇa, karma, sāmānya, viśeṣa, samavāya, and abhāva in a clear and accessible manner for beginners.
It is often studied along with its auto-commentary Dīpikā, also attributed to Annambhatta, and is intended for sukhabodha (ease of understanding), making it a foundational text in traditional Sanskrit pedagogy of Nyāya–Vaiśeṣika Darśana.
Source: Standard editions of Tarkasaṅgraha with Dīpikā commentary.
It is often studied along with its auto-commentary Dīpikā, also attributed to Annambhatta, and is intended for sukhabodha (ease of understanding), making it a foundational text in traditional Sanskrit pedagogy of Nyāya–Vaiśeṣika Darśana.
Source: Standard editions of Tarkasaṅgraha with Dīpikā commentary.
Acknowledgements
Designed and Developed by
Deepjyoti Deb, Divya Prakash Pathak & Prof. Subhash Chandra
Department of Sanskrit, University of Delhi
Sutra No.
⬥ 1 ⬥
मूलम् | Original Text
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
बालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥१॥
बालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥१॥
⬥ 2 ⬥
मूलम् | Original Text
द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः ॥२॥
⬥ 3 ⬥
मूलम् | Original Text
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ॥३॥
⬥ 4 ⬥
मूलम् | Original Text
रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वापरत्व-गुरुत्व-द्रवत्व-स्नेह-शब्द-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्मा-धर्म-संस्काराश्चतुर्विंधर्माधर्मसंस्काराश्चतुर्विंशति गुणाः ॥४॥
⬥ 5 ⬥
मूलम् | Original Text
उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥५॥
⬥ 6 ⬥
मूलम् | Original Text
परमपरं चेति द्विविधं सामान्यम् ॥६॥
⬥ 7 ⬥
मूलम् | Original Text
नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ॥७॥
⬥ 8 ⬥
मूलम् | Original Text
समवायस्त्वेक एव ॥८॥
⬥ 9 ⬥
मूलम् | Original Text
अभावश्चतुर्विधः । प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति ॥९॥
⬥ 10 ⬥
मूलम् | Original Text
गन्धवती पृथिवी । सा द्विविधा नित्यानित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा । पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । विषयो मृत्पाषाणादिः ॥१०॥
⬥ 11 ⬥
मूलम् | Original Text
शीतस्पर्शवत्य आपः । ता द्विविधाः नित्याः अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः. । पुनस्त्रिविधाः. शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः ॥११॥
⬥ 12 ⬥
मूलम् | Original Text
उष्णस्पर्शवत्तेजः । तच्च द्विविधं नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयश्चतुर्विधः । भौमदिव्यौदर्याकरजभेदात् । भौमं वह्न्यादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरौदर्यम् । आकरजं सुवर्णादि ॥१२॥
⬥ 13 ⬥
मूलम् | Original Text
रूपरहितस्पर्शवान् वायुः । स द्विविधो नित्योऽनित्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः ॥ शरीरान्तःसंचारी वायुः प्राणः । स चैकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञा लभते ॥१३॥
⬥ 14 ⬥
मूलम् | Original Text
शब्दगुणमाकाशम् । तच्चैकं विभु नित्यं च ॥१४॥
⬥ 15 ⬥
मूलम् | Original Text
अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च ॥१५॥
⬥ 16 ⬥
मूलम् | Original Text
प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका विभ्वी नित्या च ॥१६॥
⬥ 17 ⬥
मूलम् | Original Text
ज्ञानाधिकरणमात्मा । स द्विविधः परमात्मा जीवात्मा च । तत्रेश्वरः सर्वज्ञः परमात्मा एक एव । जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च ॥१७॥
⬥ 18 ⬥
मूलम् | Original Text
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ॥१८॥
⬥ 19 ⬥
मूलम् | Original Text
चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधं पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि ॥१९॥
⬥ 20 ⬥
मूलम् | Original Text
रसनग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्तभेदात्षड्विधः । पृथिव्यां षड्विधः । जले मधुर एव ॥२०॥
⬥ 21 ⬥
मूलम् | Original Text
घ्राणग्राह्यो गुणो गन्धः । स च द्विविधः सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः ।२१॥
⬥ 22 ⬥
मूलम् | Original Text
त्वगिन्द्रियमात्रग्राह्यो गुणो सपर्शः । स च त्रिविधः शीतोष्णानुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः ॥२२॥
⬥ 23 ⬥
मूलम् | Original Text
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्रापाकजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् ॥२३॥
⬥ 24 ⬥
मूलम् | Original Text
एकत्वादिव्यवहारहेतुः संख्या । नवद्रव्यवृत्तिरेकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं नित्यमनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्रानित्यमेव ॥२४॥
⬥ 25 ⬥
मूलम् | Original Text
मानव्यवहारकारणं परिमाणम् । नवद्रव्यवृत्ति । तच्चतुर्विधम् । अणु महद्दीर्घं ह्रस्वं चेति ॥२५॥
⬥ 26 ⬥
मूलम् | Original Text
पृथग्व्यवहारकारणं पृथग्त्वम् । सर्वद्रव्यवृत्ति ॥२६॥
⬥ 27 ⬥
मूलम् | Original Text
संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ॥२७॥
⬥ 28 ⬥
मूलम् | Original Text
संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ॥२८॥
⬥ 29 ⬥
मूलम् | Original Text
परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादिचतुष्टयमनोवृत्तीति । ते द्विविधे दिक्कृते कालकृते च । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् ॥२९॥
⬥ 30 ⬥
मूलम् | Original Text
आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति ॥३०॥
⬥ 31 ⬥
मूलम् | Original Text
आद्यस्यन्दनासमवायिकारणं द्रवत्वं पृथिव्यप्तेजोवृत्ति । तद्द्विविधं सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजन्यं द्रव्यत्वम् । तेजसि सुवर्णादौ ॥३१॥
⬥ 32 ⬥
मूलम् | Original Text
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ॥३२॥
⬥ 33 ⬥
मूलम् | Original Text
श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधो द्वन्यात्मको वर्णात्मकश्चेति । द्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ॥३३॥
⬥ 34 ⬥
मूलम् | Original Text
सर्वव्यवहारहेतुर्बुद्धिर्ज्ञानम् । सा द्विविधा स्मृतिरनुभवश्च । संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः ॥३४॥
⬥ 35 ⬥
मूलम् | Original Text
स द्विविधो यथार्थोऽयथार्थश्च । तद्वति तत्प्रकारकोऽनुभवो यथार्थः । यथा रजत इदं रजतमिति ज्ञानम् । स एव प्रमेत्युच्यते । तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । यथा शुक्ताविदं रजतमिति ज्ञानम् ॥३५॥
⬥ 36 ⬥
मूलम् | Original Text
यथार्थानुभवश्चतुर्विधः प्रत्यक्षानुमित्युपमितिशब्दभेदात् । तत्करणमपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दभेदात् ॥३६॥
⬥ 37 ⬥
मूलम् | Original Text
असाधारणं कारणं करणम् ।३७॥
⬥ 38 ⬥
मूलम् | Original Text
कार्यनियतपूर्ववृत्ति कारणम् ।३८॥
⬥ 39 ⬥
मूलम् | Original Text
कार्यं प्रागभावप्रतियोगि ।३९॥
⬥ 40 ⬥
मूलम् | Original Text
कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात् । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः । कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति यत्कारणं तदसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य । तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य ।४०॥
⬥ 41 ⬥
मूलम् | Original Text
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ॥४१॥
⬥ 42 ⬥
मूलम् | Original Text
तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् ।तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति । तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं किंचित् । सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं ब्रह्मणोऽयं श्यामोऽयमिति ॥४२॥
⬥ 43 ⬥
मूलम् | Original Text
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः । संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायो विशेषणविशेष्यभावश्चेति । चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः चक्षुःसंयुक्ते घटे रूपस्य समवायात् । रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् । श्रोत्रेण शब्दस्याकाशगुणत्वात्गुणगुणिनोश्च समवायात् । शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । अभावपरत्यक्षे विशेषणविशेष्यभावः सन्निकर्षो घटाभाववद्भृतलमित्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात् । एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम् । तत्करणमिन्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥४३॥
⬥ 44 ⬥
मूलम् | Original Text
अनुमितिकरणमनुमानम् । परामर्शजन्यं ज्ञानमनुमितिः । व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः । तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः । यत्र यत्र धूमस्तत्राग्निरिति साहचर्यनियमो व्याप्तिः । व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥४४॥
⬥ 45 ⬥
मूलम् | Original Text
अनुमानं द्विविधं स्वार्थं परार्थं च । तत्र स्वार्थं स्वानुमितिहेतुः । तथा हि स्वयमेव भूयो दर्शनेन यत्र धूमस्तत्र अग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस्तत्राग्निरिति । तदन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते । अयमेव लिङ्गपरामर्षमित्युच्यते । तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् । यत्तु स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुक्ते तत्परार्थानुमानम् । यथा पर्वतो वह्निमान् धूमवत्त्वात् । यो यो धूमवान् स वह्निमान् यथा महानसः । तथा चायम् । तस्मात्तथेति । अनेन प्रतिपादिताल्लिन्गात्परोऽप्यग्निं प्रतिपद्यते ॥४५॥
⬥ 46 ⬥
मूलम् | Original Text
प्रतिज्ञाहेतूदाहरणोपनयनिगमानि पञ्चावयवः । पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्त्वादिति हेतुः । यो यो धूमवान् स सोऽग्निमान् यथा महानस इत्युदाहरणम् । तथा चायमिति उपनयः । तस्मात्तथेति निगमनम् ॥४६॥
⬥ 47 ⬥
मूलम् | Original Text
स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्श एव करणम् । तस्माल्लिङ्गपरामर्शाऽनुमानम् ॥४७॥
⬥ 48 ⬥
मूलम् | Original Text
लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निर्यथा महानस इत्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः । अन्वयमात्रव्याप्तिकं केवलान्वयि यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् । अत्र प्रमेयत्वाभिध्यत्वयोर्व्यतिरेकव्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च । व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि यथा पृथिवी तरेभ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न तद्गन्धवत् । यथा जलम् । न चेयं तथा । तस्मान्न तथेति अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टन्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ॥४८॥
⬥ 49 ⬥
मूलम् | Original Text
संदिग्धसाध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः ॥४९॥
⬥ 50 ⬥
मूलम् | Original Text
निश्चितसाध्यवान् सपक्षः । यथा तत्रैव महानसः ॥५०॥
⬥ 51 ⬥
मूलम् | Original Text
निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव महाह्रदः ॥५१॥
⬥ 52 ⬥
मूलम् | Original Text
सव्यभिचारविरुद्धसत्पक्षासिद्धबाधिताः पञ्च हेत्वाभासाः ॥५२॥
⬥ 53 ⬥
मूलम् | Original Text
सव्यभिचारोऽनैकान्तिकः । स त्रिविधः । साधारणासाधारणानुपसंहारिभेदात् । तत्र साध्याभाववद्वृत्तिः साधारणो अनैकान्तिकः । यथा पर्वतो वह्निमान् प्रमेयत्वादिति प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात् । सर्वसपक्षविपक्षव्यावृत्तोऽसाधारणः । यथा शब्दो नित्यः शब्दत्वादिति । शब्दत्वं सर्वेभ्यो नित्येभ्योऽन्त्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति । अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा सर्वमनित्यं प्रमेयत्वादिति । अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति ॥५३॥
⬥ 54 ⬥
मूलम् | Original Text
साध्याभावव्याप्तो हेतुर्विरुद्धः । यत्र शब्दो नित्यः कृतकत्वादिति । कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् ॥५४॥
⬥ 55 ⬥
मूलम् | Original Text
यस्य साध्यभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववदिति । शब्दोऽनित्यः कार्यत्वाद्घटवदिति ॥५५॥
⬥ 56 ⬥
मूलम् | Original Text
असिद्धस्त्रिविधः । आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति । आश्रयासिद्धो यथा गगनारविन्दं सुरभ्यरविन्दत्वात्सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः । स च नास्त्येव । स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात् । सोपाधिको व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापक उपाधिः । साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् । साधनवन्निष्टात्यन्ताभावप्रतियोगित्वं साधारणाव्यपकत्वम् । पर्वतो धूमवान् वह्निमत्त्वादित्यत्रार्द्रेन्धसंयोग उपाधिः । तथा हि । यत्र धूमस्तत्रार्द्रेन्ध्नसंयोग इति साध्यव्यापकता । यत्र वह्निस्तत्रार्द्रेन्धनसंयोगाभावादिति साधनाव्यापकता । एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादर्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम् ॥५६॥
⬥ 57 ⬥
मूलम् | Original Text
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा वह्निरनुष्णो द्रव्यत्वादिति । अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यत इति बाधितत्वम् ॥५७॥
⬥ 58 ⬥
मूलम् | Original Text
उपमितिकरणमुपमानम् । संज्ञासंज्ञिसंबन्धज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः । तथा हि कश्चिद्गवयशब्दार्थमजानन् कुतश्चिदारण्यकपुरुषाद्गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृषं पिण्डं पश्यति । तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरुत्पद्य्ते ॥५८॥
⬥ 59 ⬥
मूलम् | Original Text
आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं पदसमूहः । यथा गामानयेति । शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः ॥५९॥
⬥ 60 ⬥
मूलम् | Original Text
आकाङ्क्षा योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा । अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारणं संनिधिः ॥६०॥
⬥ 61 ⬥
मूलम् | Original Text
आकाङ्क्षादिरहितं वाक्यमप्रमाणम् । यथा गौरश्वः पुरुषो हस्तीति न प्रमाणमाकाङ्क्षाविरहात् । अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात् । प्रहरे प्रेहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं संनिध्यभावात् ॥६१॥
⬥ 62 ⬥
मूलम् | Original Text
वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् ॥६२॥
⬥ 63 ⬥
मूलम् | Original Text
वाक्यार्थज्ञानं शब्दज्ञानम् । तत्करणं शब्दः ॥६३॥
⬥ 64 ⬥
मूलम् | Original Text
अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात् । एकस्मिन् धर्मिनि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानं संशयः । यथा स्थाणुर्वा पुर्षो वेति । मिथ्याज्ञानं विपर्ययः । यथा शुक्ताविदं रजतमिति । व्याप्यारोपेण व्यापकारोपस्तर्कः यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति ॥६४॥
⬥ 65 ⬥
मूलम् | Original Text
स्मृतिरपि द्विविधा । यथार्थायथार्था च प्रमाजन्या यथार्था । अप्रमाजन्यायथार्था ॥६५॥
⬥ 66 ⬥
मूलम् | Original Text
सर्वेशामनुकूलतया वेदनीयं सुखम् ॥६६॥
⬥ 67 ⬥
मूलम् | Original Text
सर्वेशां प्रतिकूलतया वेदनीयं दुःखम् ॥६७॥
⬥ 68 ⬥
मूलम् | Original Text
इच्छा कामः ॥६८॥
⬥ 69 ⬥
मूलम् | Original Text
क्रोधो द्वेषः ॥६९॥
⬥ 70 ⬥
मूलम् | Original Text
कृतिः प्रयत्नः ॥७०॥
⬥ 71 ⬥
मूलम् | Original Text
विहितकर्मजन्यो धर्मः ॥७१॥
⬥ 72 ⬥
मूलम् | Original Text
निषिद्धकर्मजन्यस्त्वधर्मः ॥७२॥
⬥ 73 ⬥
मूलम् | Original Text
बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः ॥७३॥
⬥ 74 ⬥
मूलम् | Original Text
बुद्धीच्छाप्रयत्ना द्विविधाः । नित्या अनित्याश्च । नित्या ईश्वरस्य । अनित्या जीवस्य ॥७४॥
⬥ 75 ⬥
मूलम् | Original Text
संस्कारस्त्रिविधः । वेगो भावना स्थितिस्थापकश्चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः । अनुभवजन्या स्मृतिहेतुर्भावनात्ममात्रवृत्तिः । अन्यथा कृतस्य पुनस्तदवस्थापादकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः ॥७५॥
⬥ 76 ⬥
मूलम् | Original Text
चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेशसंयोगहेतुरपक्षेपणम् । शरीरसंनिकृष्टसंयोगहेतुराकुञ्चनम् । विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत्सर्वं गमनम् । पृथिव्यादिचतुष्टयमनोमात्रवृत्ति ॥७६॥
⬥ 77 ⬥
मूलम् | Original Text
नित्यमेकमनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति । तद्द्विविधं परापरभेदात् । परं सत्ता । अपरं द्रव्यत्वादिः ॥७७॥
⬥ 78 ⬥
मूलम् | Original Text
नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ॥७८॥
⬥ 79 ⬥
मूलम् | Original Text
नित्यसंबन्धः समवायः । अयुतसिद्धवृत्तिः । ययोर्द्वयोर्मध्य एकमविनश्यदपराश्रितमेवावतिष्टते तावयुतसिद्दौ । यथावयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति ॥७९॥
⬥ 80 ⬥
मूलम् | Original Text
अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य । सादिरनन्तः प्रध्वंसः । उत्पत्त्यनन्तरं कार्यस्य । त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । यथा भूतले घटो नास्तीति । तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः यथा घटः पटो न भवतीति ॥८०॥
⬥ 81 ⬥
मूलम् | Original Text
सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैव पदार्था इति सिद्धम् ॥८१॥
⬥ 82 ⬥
मूलम् | Original Text
काणादन्यायमतयोर्बालाव्युत्पत्तिसिद्धये । अन्नंभट्टेन विदुषा रचितस्तर्कसंग्रहः ॥८२॥